353

अपरिक्लिन्नवर्त्मलक्षण.

मुहुर्मुहुर्धौतमपीह वर्त्म यत् । प्रदिह्यते तत्सहसैव सांप्रतम् ॥
अपाकवत्स्यादपरिप्रयोजितं । कफोद्भवं क्लिन्नकवर्त्मनामकम् ॥ १९० ॥

भावार्थः--The Hindi commentary was not digitized.

वातहतवर्त्म लक्षण.

विमुक्तसंधिप्रविनष्टचेष्टितं । निमील्यते यस्य च वर्त्म निर्भरम् ॥
भवेदिदं वातहताख्यवर्त्मकं । वदंति संतः सुविचार्य वातजम् ॥ १९१ ॥

भावार्थः--The Hindi commentary was not digitized.

अर्बुद लक्षण.

सुरक्तकल्पं विषमं विलंबितं । सवर्त्मतोंऽतस्थमवेदनं घनम् ॥
भवेदिदं ग्रंथिनिभं तदर्बुदं । ब्रवंति दोषागमवेदिनो बुधाः ॥ १९२ ॥

भावार्थः--The Hindi commentary was not digitized.

निमेषलक्षण

सिरां स्वसंधिप्रभवां समाश्रितः । स चालयत्याश्वनिलश्च वर्त्मनि ॥
निमेषनामामयमामनंति तं । प्रभंजनोत्थं स्फुरसन्मुहुर्मुहुः ॥ १९३ ॥

भावार्थः--The Hindi commentary was not digitized.

रक्तार्शक्षण

स्ववर्त्म संश्रित्य विवर्धते मृदु--। स्सलोहितो दीर्घतरांकुरोऽतिरुक् ॥
स लोहितार्शो भवतीह नामतः । प्ररोहति छिन्नमपीह तत्पुनः ॥ १९४ ॥