354

भावार्थः--The Hindi commentary was not digitized.

लगणलक्षण

अवेदनो ग्रंथिरपाकवान्पुनः । स वर्त्मनि स्थूलतरः कफात्मकः ॥
स्वलिंगभेदो लगणोऽथ नामतः । प्रकीर्तितो दोषविशेषवेदिभिः ॥ १९५ ॥

भावार्थः--The Hindi commentary was not digitized.

बिसवर्त्मलक्षण

सुसूक्ष्मगंभीरगतांकुरो जले । यथा बिसं तद्वदिहापि वर्त्मनि ॥
स्रवत्यजस्रं बिसवज्जलं मुहुः । स नामतस्तद्बिसवर्त्म निर्दिशेत् ॥ १९६ ॥

भावार्थः--The Hindi commentary was not digitized.

पक्ष्मकोपलक्षण

यदैव पक्ष्माण्यतिवातकोपतः । प्रचालितान्यक्षि विशंति संततम् ॥
ततस्तु संरंभविकारसंभवः । स पक्ष्मकोपो भवतीह दारुणः ॥ १९७ ॥

भावार्थः--The Hindi commentary was not digitized.

वर्त्मरोगोंके उपसंहार

इतीह वर्त्माश्रयरोगसंकथा । स्वदोषभेदाकृतिनामलक्षणैः ॥
अथैकविंशत्युदितात्मसंख्यया । प्रकीर्तिताः शुक्लगतामयान्ब्रुवे ॥ १९८ ॥