312

घृतपान+आदि.

पिबेत्स सर्पिः पयसा समन्वितं । सुखोष्णमस्योपरि कर्णरोगवान् ॥
बलाख्यतैलेन शिरोवितर्पणं । सनस्यकर्मात्र निषेचनं हितं ॥ १९ ॥

भावार्थः--The Hindi commentary was not digitized.

कर्णरोगांतक घृत.

सपेचुकांकोलफलार्द्रकाद्रवै--। रहिंस्रया शिग्रुरसेंद्रदारुभिः ।
सवेणुलेखैर्लशुनैस्सरामठैः । ससैंधवैर्मूत्रगणैः कटुत्रिकैः ॥ २० ॥
पृथक्समस्तैः कथितौषधैर्बुधः । पचेध्दृतं तैलसमन्वितं भिषक् ॥
प्रपूरयेत्कर्णमनेन सोष्मणा--। निहंति तत्कर्णगताखिलामयान् ॥ २१ ॥

भावार्थः--The Hindi commentary was not digitized.

कफाधिक कर्णरोगचिकित्सा.

सशिग्रुमूलार्द्रकसद्रसेन वा । ससैंधवेनोष्णतरेण पूरयेत् ॥
अजांबुना वा लशुनार्कसैंधवैः । कफाधिके कर्णगतामये भृशम् ॥ २२ ॥

भावार्थः--The Hindi commentary was not digitized.

कृमिकर्ण, कर्णपाकचिकित्सा.

सनिंबतैलैर्लवणैस्सुपूरयन् । क्रिमिप्रगाढे क्रिमिनाशनो विधिः ॥
विधीयतां पूरणमेभिरेव वा । सुकर्णपाके क्षतवद्विसर्पवत् ॥ २३ ॥