380
धात्र्याक्ष्याख्याभयानामुदधिकफनिशाशंखतुत्थामृतानाम् ॥
यष्ट्याह्वापिप्पलीनागरवरमरिचानां विचूर्णं समांशं ।
यष्टिक्वाथेन पिष्टं शमयति गुलिका नेत्ररोगानशेषान् ॥ २८८ ॥

भावार्थः--The Hindi commentary was not digitized.

तुत्थाद्यंजन.

तुत्थं चंदनरक्तचंदनयुतं काश्मीरकालागुरु--।
प्रोद्यत्सूततमालचंद्रभुजगास्सर्वे समं संमिताः ॥
नीलाख्यांजनमत्र तद्विगुणितं चूर्णीकृत कालिका--।
न्यस्तं नागशलाकयांजितमिदं सौभाग्यदृष्टिप्रदम् ॥ २८९ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रसिद्ध योग.

पादाभ्यंगः पादपूज्यार्चितोयं । नस्यं शीतं चांजनं सिद्धसेनैः ॥
अक्ष्णोर्मूर्ध्नस्तर्पणं श्रीजटाख्यै । र्विख्याता ये दृष्टिसंहारकाले ॥ २९० ॥

भावार्थः--The Hindi commentary was not digitized.

सूक्ष्माक्षराभीक्ष्णनिरीक्षणोद्य--। द्दीपप्रभादर्शनतो निवृत्तिः ॥
शश्वद्विनश्यत्प्रवरात्मदृष्टे--। र्दृष्टातिरक्षेति समंतभद्रैः ॥ २९१ ॥

भावार्थः--The Hindi commentary was not digitized.