382

अथ षोडशः परिच्छेदः

मंगलाचरण.

सुंदरांगमभिवंद्य जिनेंद्रं । वंद्यमिंद्रमहितं प्रणिपत्य ॥
बंधुरानननिबंधनरोगान् । सन्दधाम्यखिललक्षणयुक्तान् ॥ १ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रतिज्ञा.

श्वासकासविरसातिपिपासा । छर्द्यरोचकखरस्वरभेदो--॥
दातिवर्तनिजनिष्टुरहिक्का--। पीनसाद्यतिविरूपविकारान् ॥ २ ॥

भावार्थः--The Hindi commentary was not digitized.

लक्षितानखिललक्षणभेदैः । साधयेत्तदनुरूपविधानैः ।
साध्ययाप्यपरिवर्जयितव्यान् । योजयेदधिकृतक्रमवेदी ॥ ३ ॥

भावार्थः--The Hindi commentary was not digitized.

अथ श्वासाधिकारः ।

श्वासलक्षण.

श्वास इत्यभिहितो विपरीतः । प्राणवायुरुपरि प्रतिपन्नः ॥
श्लेष्मणा सह निपीड्यतरं तं । श्वास इत्यपि स पंचविधोऽयम् ॥ ४ ॥

भावार्थः--The Hindi commentary was not digitized.