406

भावार्थः--The Hindi commentary was not digitized.

दुष्टप्रतिश्यायलक्षण.

शीघ्रं शुष्यत्यथ पुनरिह क्लिद्यते चापि नासा ।
स्रोतो रोधादतिबहुकफो नह्यते तत्क्षणेन ॥
वैकल्यं स्यात् व्रजति सहसा पूतिनिश्वासयोगा--।
द्गंधं सर्वं स्वयमिह नवेत्त्येव दुष्टाख्यरोगी ॥ ९४ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रतिश्यायकी उपेक्षा का दोष.

सर्वे चैते प्रकटितगुणा ये प्रतिश्यायरोगा ।
अज्ञैर्दोषप्रमथनगुणोपेक्षिताः सर्वदैव ॥
साक्षात्कालांतरमुपगता दुष्टतामेति कृच्छ्राः ।
प्रत्याख्येया क्षयविपमरोगावहा वा भवंति ॥ ९५ ॥

भावार्थः--The Hindi commentary was not digitized.

प्रतिश्यायचिकित्सा.

दोषापेक्षाविहितसकलैर्भेषजैस्संप्रयुक्तो ।
सर्पिःपानाच्छमयति नवोत्थं प्रतिश्यायरोगं ॥
स्वेदाभ्यंगत्रिकटुबहुगण्डूषणैः शोधनाद्यैः ।
पक्वं कालाद्घनतरकफं स्रावयेन्नस्यवर्गैः ॥ ९६ ॥
58
  1. वैद्यं इति पाठातरं ।