393

वमन में सक्तुप्रयोग.

शर्कराबहुलनागलवंगै--। स्संस्कृतं मगधजान्वितलाजा ॥
तर्पणं सततमेव यथाव--। द्भक्षयेत्तृषि हितं वमनेषु ॥ ४८ ॥

भावार्थः--The Hindi commentary was not digitized.

कोलमज्जसहितामलकाना--। मस्थिचूर्णमथवा सितमिश्रम् ॥
भक्षयेत्सकलगंधसिताभिः । नस्यमप्यतिहितं वमनेषु ॥ ४९ ॥

भावार्थः--The Hindi commentary was not digitized.

छर्दि में पथ्यभोजन ।

भक्ष्यभोज्यबहुपानकलेहान् । स्वादुगंधपरिपाकविचित्रान् ॥
योजयेदिह भिषग्वमनार्ते--। ष्वातुरेषु विधिवद्विधियुक्तान् ॥ ५० ॥

भावार्थः--The Hindi commentary was not digitized.

अथारोचकरोगाधिकारः ।

अरोचक निदान ।

दोषवर्गबहुशोकनिमित्ता--। द्भोजनेष्वरुचिरप्रतिरूपा ।
प्राणिनामनलवैगुणतः स्यात् । जायते स्वगुणलक्षणलक्ष्या ॥ ५१ ॥

भावार्थः--The Hindi commentary was not digitized.