419

मूत्रोत्संग लक्षण.

अपि मनोहरमेहनमध्यमे । प्रवरबस्तिमुखेति विषज्यते ।
सृजत एव बलात्प्रतिबाधतः । सरुज मूत्रमतोप्यपसंगरुक् ॥ ४५ ॥

भावार्थः--The Hindi commentary was not digitized.

मूत्रक्षयलक्षण.

द्रवविहीनविरूक्षशरीरिणः । प्रकटबस्तिगतानिलपित्तकौ ।
क्षपयतोऽस्य जलं बलतः स्वयं । भवति मूत्रगतक्षयनामकः ॥ ४६ ॥

भावार्थः--The Hindi commentary was not digitized.

मूत्राश्मरी लक्षण.

अनिलपित्तवशादतिशोषितं । कठिनवृत्तमिहांबुनिवासितम् ।
मुखगतं निरुणद्धि जलं शिलोपममतोऽस्य च नाम तदेव वा ॥ ४७ ॥

भावार्थः--The Hindi commentary was not digitized.

मूत्रशुक्र लक्षण.

अभिमुखस्थितमूत्रनिपीडितः । प्रकुरुतेऽज्ञतयाधिकमैथुनम् ।
अपि पुरः पुरतस्सह रेतसा वहति मूत्रमिदं च तदाख्यया ॥ ४८ ॥

भावार्थः--The Hindi commentary was not digitized.