420

उष्णवात लक्षण.

श्रमयुतोष्णनिरूक्षनिषेवया । कुपितपित्तयुतो मरुदुद्धतः ।
प्रजननाननवस्तिगुदं दहन् । गमयतीह जलं मुहुरुष्णवत् ॥ ४९ ॥

भावार्थः--The Hindi commentary was not digitized.

पित्तज मूत्रोपसाद लक्षण.

विविधपीतकरक्तमिहोष्णवद्बहुलशुष्कमथापि च रोचना--।
सदृशम्त्रमिदं बहुपित्ततः स च भवेदुपसादगदो नृणाम् ॥ ५० ॥

भावार्थः--The Hindi commentary was not digitized.

कफज मूत्रोपसाद लक्षण.

वहलपिच्छिलशीतलगौरवत् । स्रवति कृच्छ्रत एव जलं चिरात् ।
कुमुदशंस्वशशांकसमप्रभं कफकृतस्सभवेदुपसादकृत् ॥ ५१ ॥

भावार्थः--The Hindi commentary was not digitized.

मूत्ररोग निदानका उपसंहार.

इति यथाक्रमतो गुणसंख्याया, निगदिताः सजलोद्भवदुर्गदाः ॥
अथ तदौषधमार्गमतः परं, परहितार्थपरं रचयाम्यहम् ॥ ५२ ॥

भावार्थः--The Hindi commentary was not digitized.

अथ मूत्ररोगचिकित्सा.

विधिवदत्र विधाय विरेचनं, प्रकटितोत्तरवस्तिरपीष्यते ।
अधिकमैथुनतो रुधिरं स्रवेत्, यदि ततो विधिमस्य च बृंहणम् ॥ ५३ ॥