मूत्रामयघ्न घृत.

कपिबलातिबला मधुकेक्षुर । प्रकटगोक्षुरभूरिशतावरी--॥
प्रभुमृणालकशेरुकसोत्पलां--। बुजफलांशुमतीं सह विन्नया ॥ ५५ ॥
समधृतानि विचूर्ण्य विभावितो--। दकचतुष्कमिदं पयसा चतु--॥
र्गुणयुतेन तुला गुडसाधितं । घृतवराढकमुत्कटगंधवत् ॥ ५६ ॥
घृतमिदं सततं पिबतां नृणां । अधिकवृष्यबलायुररोगता ॥
भवति गर्भवती वनिता प्रजा । प्रतिदिनं पयसैव सुभोजनं ॥ ५७ ॥

भावार्थः--The Hindi commentary was not digitized.

422