410

अथ हृद्रोगाधिकारः ।

वातज हृद्रोग चिकित्सा.

पवनदोषकृताधिकवेदना--। हृदयरोगनिपीडितमातुरम् ॥
मगधजान्वितसर्षपमिश्रितै--। रहिमवारिभिरेव च वामयेत् ॥ ५ ॥

भावार्थः--The Hindi commentary was not digitized.

वातज हृद्रोगनाशक योग.

लवणवर्गयवोद्भवमिश्रितं । घृतमतः प्रपिबेध्दृदयामयी ॥
त्रिकटुहिंग्वजमोदकसैंधवा--। नपि फलाम्लगणैः पयासाथवा ॥ ६ ॥

भावार्थः--The Hindi commentary was not digitized.

पित्तज हृद्रोगचिक्रित्सा.

अधिकपित्तकृते हृदयामये । घृतगुडाप्लुतदुग्धयुतौषधैः ॥
वमनमत्र हितं सविरेचनम् । कथितपित्तचिकित्सितमेव वा ॥ ७ ॥

अर्थ--The Hindi commentary was not digitized.

कफज हृदोगचिकित्सा.

कफकृतोग्रमहाहृदयामये । त्रिकटुकोष्णजलैरिह वामयेत् ।
अपि फलाम्लयुता त्रिवृता भृशं । लवणनागरकैस्स विरेचयेत् ॥ ८ ॥

अर्थः--The Hindi commentary was not digitized.

हृद्रोग में बस्तिप्रयोग.

तदनुरूपविशेषगुणौषधै--। रखिलबस्तिविधानमपीष्यते ॥
हृदयरोगगणप्रशमाय तत् । क्रिमिकृतस्य विधिश्च विधीयते ॥ ९ ॥