434

पाण्डुरोग का उपसंहार.

एवं विद्वान् कथितगुणवान् अप्यशेषान् विकारान् ।
ज्ञात्वा दोषप्रशमनपरैरौषधैस्साधयेत्तान् ॥
कार्यं यस्मान्न भवति विना कारणैर्द्विप्रकारै--।
र्भूयो भूयः तदनुकथनं पिष्टसंपेषणार्थम् ॥ ९९ ॥

भावार्थः--The Hindi commentary was not digitized.

अथ मूर्च्छोन्मादापस्माराधिकारः ।

मूर्च्छोन्मादावपि पुनरपस्माररोगोऽपि दोषै--।
रंतर्बाह्याखिलकरणसंछादकैर्गौणमुख्यैः ॥
उत्पन्नास्ते तदनुगुणरूपौषधैस्तान्विदित्वा ।
सर्वेष्वेषु प्रबलतरपित्तं सदोपक्रमेत ॥ १०० ॥

भावार्थः--The Hindi commentary was not digitized.

मूर्च्छानिदान ।

दोषव्याप्तस्मृतिपथयुतस्याशु मोहस्तमोरू--
पेण प्राप्नोत्यनिशमिह भूमौ पतत्येव तस्मात् ।
मूर्च्छामाहुः क्षतजविषमद्यैस्सदा षड्विधास्ताः ॥
षद्स्वप्येवं भिषगिह महान् पिक्षशांतिं प्रकुर्यात् ॥ १०१ ॥