412

कृमिघ्न स्वरस.

अपि शिरीषरसं किणिहीरसं । प्रवरकेंबुककिंशुकसद्रसम् ॥
तिलजमिश्रितमेव पिबेन्नरः । क्रिमिकुलानि विनाशयितुं ध्रुवं ॥ १४ ॥

भावार्थः--The Hindi commentary was not digitized.

विडंग चूर्ण.

कृतविडंगविचूर्णमनेकशः । पुनरिहाश्वशकृद्रसभावितम् ॥
तिलजशर्करया च विमिश्रितं । क्रिमिकुलप्रलयावहकारणम् ॥ १५ ॥

भावार्थः--The Hindi commentary was not digitized.

मूषिककर्णादियोग.

अपि च मूषिककर्णरसेन वा । प्रवररालिविडंगविचूर्णितम् ।
परिविलोड्य घृतेन विपाचितं । भवति तत्क्रिमिनाशनभक्षणम् ॥ १६ ॥

भावार्थः--The Hindi commentary was not digitized.

कृमिनाशक तैल.

वितुषसारविडंगकषायभाविततिलोद्भवमेव विरेचनौ--॥
षधगणैः परिपक्वमिदं पिबन् । क्रिमिकुलक्षयमाशु करोत्यसौ ॥ १७ ॥

भावार्थः--The Hindi commentary was not digitized.

सुरसादि योग.

सुरसबंधुरकंदलकंदकैः । परिविपक्वसुतक्रमयम्लिकाम् ॥
अशिशिरां सघृतां त्रिदिनं पिबे--। दुदरसर्पविनाशनकारिकाम् ॥ १८ ॥

भावार्थः--The Hindi commentary was not digitized.