453

विस्फोट लक्षण.

विशेषविस्फोटगणास्तथापरे भवंति नानाद्रुमसत्फलोपमाः ।
भयंकराः प्रणाभृतां स्वकर्मतो बहिर्मुखांतर्मुखभेदभेदिकाः ॥ ३२ ॥

भावार्थः--The Hindi commentary was not digitized.

अरुंषिका.

सितातिरक्तारुणकृष्णमण्डलान्यणून्यरूष्यंत्र विभांत्यनंतरम् ।
निमग्नमध्यान्यसिताननानि तान्यसाध्यरूपाणि विवर्जयोद्भिषक् ॥ ३३ ॥

भावार्थः--The Hindi commentary was not digitized.

मसूरिकाके पूर्वरूप.

मसूरिकासंभवपूर्वलक्षणान्यतिज्वरारोचकरोमहर्षता ।
विदाहतृष्णातिशिरोंगहृद्रुजः ससंधिविश्लेषणगाढनिद्रता ॥ ३४ ॥
प्रलापमूर्च्छाभ्रमवक्त्रशोषणं स्वचित्तसम्मोहनशूलजृम्भणम् ।
सशोफकण्डूगुरुगात्रता भृशं विषातुरस्येव भवंति संततम् ॥ ३५ ॥

भावार्थः--The Hindi commentary was not digitized.