518
अस्मादूर्ध्वं द्विपादप्रवलतरचतुःपादषट्पादपाद--।
व्याकीर्णापादकीटप्रभवबहुविषध्वंसनायौषधानि ॥
दोषत्रैविध्यमार्गप्रविदितविधिनासाध्यसाध्यक्रमेण ।
प्रव्यक्तं प्रोक्तमेतत्पुरुजिनमतमाश्रित्य वक्ष्यामि साक्षात् ॥ १३२ ॥

भावार्थः--The Hindi commentary was not digitized.

मर्त्याश्च श्वापदानां दशननखमुखैर्दारितोग्रक्षवेषु ।
प्रोद्यत्तृष्णासृगुद्यच्छ्वयथुयुतमहावेदनाव्याकुलेषु ॥
वातश्लेष्मोत्थतीव्रप्रबलविषयुतेषूद्धतोन्मादयुक्तान् ।
मर्त्यानन्यानथान्ये परुषतररुषामानुषांस्ते दशंति ॥ १३३ ॥

भावार्थः--The Hindi commentary was not digitized.

हिंस्रकप्राणिजन्य विषका असाध्यलक्षण.

व्यालैर्दष्टाःकदाचित्तदनुगुणयुताश्चारुचेष्टा यदि स्युः ।
तानेवादर्शदीपातपजलगतबिंबान्प्रपश्यंति ये च ॥
शद्वस्पर्शावलोकादधिकतरजलत्रासतो नित्रसंति ।
प्रस्पष्टादष्टदेहानपि परिहरतां दृष्टरिष्टान्विशिष्टान् ॥ १३४ ॥