521

कीटदष्टलक्षण.

लूताशेषोग्रकीटप्रभृतिभिरिह दष्टप्रदेशेषु तेषां ।
नॄणां तन्मंदमध्यादिकविषहतरक्तेषु तत्प्रोक्तदोषैः ॥
जायंते मण्डलानि श्वयथुपिटकिका ग्रंथयस्तीव्रशोफाः ।
दद्रुश्वित्राश्च कण्डूकिटिभकठिनसत्कर्णिकाद्युग्ररोगाः ॥ १३९ ॥

भावार्थः--The Hindi commentary was not digitized.

कीटभक्षणजन्य विषचिकित्सा.

अज्ञानात्कीटदेहानशनगुणयुतान् भक्षयित्वा मनुष्याः ।
नानारोगाननेकप्रकटतरमहोपद्रवानाप्नुवंति ॥
तेषां दूषीविषघ्नैरभिहितवरभैषज्ययोगैः प्रशांतिं ।
कुर्यादन्यान्यथार्थं निखिलविषहराण्यौषधानि ब्रवीमि ॥ १४० ॥

भावार्थः--The Hindi commentary was not digitized.

क्षारागद.

अर्कांकोलाग्निकाश्वांतकघननिचुलप्रग्रहाश्मंतकानां ।
श्लेष्मातक्यामलक्यार्जुननृपकटुकश्रीकपित्थस्नुहीनाम् ॥
घोंटागोपापमार्गामृतसितबृहती कंटकारी शमीना--।
मास्फोतापाटलीसिंधुकतरुचिरिबिल्वारिमेदद्रुमाणाम् ॥ १४१ ॥
गोजीसर्जोरुभूर्जासनतरुतिलकप्लक्षसोमांघ्रिकाणां ।
टुंटूकाशोककाश्मर्यमरतरुशिरीषोग्रशिग्रुद्वयानाम् ॥
उष्णीकारंजकारुष्करवरसरलोद्यत्पलाशद्वयानाम् ।
नक्ताहानां च भस्माखिलमिह विपचेत् षड्गुणैर्मूत्रभागैः ॥ १४२ ॥