493

त्रयोदशविधकंदजविष व कालकूटलक्षण.

कंदजानि विषमाणि विषाणि ज्ञापयामि निजलक्षणभेदैः ।
कालकूटविषकर्कटकोद्यत् कर्दमाख्यवरसर्षपकेन ॥ ३५ ॥
वत्सनाभनिजमूलकयुक्तं पुण्डरीकसुमहाविषसम्भा ।
मुस्तया सहितमप्यपरं स्यादन्य हालहलनामविषं च ॥ ३६ ॥
मृत्युरूपनिजलक्षणपालाकाख्यमन्य्दपरं च तथा वै--।
राटकोग्रविषमप्यतिघोरं वीरशासनवशादवगम्य ॥ ३७ ॥
तत्रयोदशविधं विषमुक्तलक्षणैस्समधिगम्य चिकित्सेत् ।
स्पर्शहानिरतिवेपथुरुद्यत् कालकूटविषलक्षणमेतत् ॥ ३८ ॥

भावार्थः--The Hindi commentary was not digitized.

कर्कटक व कर्दमकविषजन्यलक्षण.

उत्पतत्यटति चातिहसत्यन्यानशत्यधिककर्कटकेन ।
कर्दमेन नयनद्वयपीत सातिसारपरितापनमुक्तम् ॥ ३९ ॥

भावार्थः--The Hindi commentary was not digitized.

सर्षप वत्सनाभ विषजन्य लक्षण.

सर्षपेण बहुवातविकाराध्मानशूलपिटकाः प्रभवः स्यात् ॥
पीतनेत्रमलमूत्रकरं तद्वत्सनाभमतिनिश्चलकंठम् ॥ ४० ॥