549

कृकाटिका विधुर मर्मलक्षण.

ग्रीवासंधावपि च शीर्षत्वकृन्मर्मणी द्वे ।
स्यातां मृत्योर्निलयनिजरूपे कृकाटाभिधाने ॥
कर्णस्याधो विधुर इति मर्मण्यथा कर्णसंधौ ।
बाधिर्यं स्यादुपहतवती प्रोक्त तत्पृष्टभागे ॥ ६७ ॥

भावार्थः--The Hindi commentary was not digitized.

फण अपांगमर्भलक्षण.

घ्रांणस्यांतर्गतमुभयतः स्रोतसो मार्गसंस्थे ।
मर्मण्येतेऽप्यभिहतफणे तत्र गंधप्रणाशः ॥
अक्ष्णोर्बाह्ये प्रतिदिनकटाक्षेऽप्यपांगाभिधाने ।
मर्मण्यांध्यं जनयत इतस्तत्र घातान्नराणां ॥ ६८ ॥

भावार्थः--The Hindi commentary was not digitized.

शंख, आवर्त, उत्क्षपेक, स्थपनी सीमंतमर्मलक्षण.

भ्रूपुच्छोपर्यनुगतललाटानुकर्णे तु शंखौ--।
ताभ्यां सद्यो मरणमथ मर्मभ्रुवोरूर्ध्वभागे ॥
आवर्ताख्यावमलनयनध्वंसिनौ दृष्टयुपघ्ना--।
व्युत्क्षेपावप्युपरि च तयोरेव केशांतजातौ ॥ ६९ ॥
जीवेत्तत्र क्षतवति सशल्येऽथवा पाकपाता--।
भ्द्रूमध्ये तत्तदिव विदितं स्यात् स्थपन्येकमर्म ॥
पंचान्ये च प्रविदितमहासंधयश्चोत्तमांगे ।
सीमंताख्यो मरणमपि दुश्चित्तनाशोन्मदैश्च ॥ ७० ॥