सम्पूर्ण मर्मोंके पांच भेद.

सप्ताधिकत्रिंशदिहोत्तमांगे मर्माणि कंठप्रभृतीष्वशेषा--।
ण्युक्तानि पंच प्रकराण्यथास्थिस्नायूरु संध्युग्रशिरास्स्वमांसैः ॥ ७२ ॥

भावार्थः--The Hindi commentary was not digitized.

551
कटीकतरुणान्वितांसफलके तथा शंखका ।
नितंबसहितानि तान्यमलिनास्थिमर्माण्यलं ॥
सकक्षधरकूर्चकूर्चशिरसाक्रकन्यांसका--।
सबस्तिविधुरैरपि सुविटपं तथोत्क्षेपकाः ॥ ७३ ॥
क्षिप्रेऽऽण्यपि स्नायुमर्माण्यशेषाण्युक्तान्यूर्ध्वं संधिमर्माणि वक्ष्ये ।
जानुन्येवं कूर्परे गुल्फसीमंतावर्ताख्याश्चाधिपेनाप्यथान्ये ॥ ७४ ॥
क्रकाटिकाभ्यां मणिबंधकौ तथा कुकुंदुरे मर्ममयोरुसंधयः ।
अपालकाख्यस्थपनीफणस्तनप्रधानमूलान्यपि नीलमन्यका ॥ ७५ ॥
श्रृंगाटकाषांगसिराधिमातृकाश्चोर्वी बृहत्यूर्जितपार्श्वसंधयः ।
हृन्नाभ्यपस्तंभकलोहिताक्षकाः प्राहुश्शिरामर्मविशेषवेदिनः ॥ ७६ ॥
तलहृदयेंद्रबस्तिगुदनामयुतस्तनरोहितान्यपि ।
प्रकटितमांसमर्मगण इत्यखिलं प्रतिपादितं जिनैः ॥
बहुविधमर्मविद्भिषगशेषविपक्षगरोगलक्षणैः ।
समुचितमाचरेत्तदपि पंचविधं फलमत्र मर्मणाम् ॥ ७७ ॥

भावार्थः--The Hindi commentary was not digitized.