533

ग्रासग्रासांतर लक्षण.

ग्रासगतं विचूर्णमबलाग्निषु दीपनवृंहणादिकं ।
ग्रासगणांतरेषु वमनौषधधूमगणान् सकासनि--॥
श्वासिषु तत्प्रशांतिकरभेषजसाधितसिद्धयोगले--।
हानपि योजयेदिति दशौषधकालविचारणक्रमात् ॥ २१ ॥

भावार्थः--The Hindi commentary was not digitized.

स्नेहपाकादिवर्णनप्रतिज्ञा.

स्नेहविपाकलक्षणमतः परमूर्जितमुच्यतेऽधुना--।
चार्यमतैः प्रमाणमपि कल्ककषायविचूर्णतैलस ॥
र्पिःप्रकरावलेहनगणेष्वतियोगमयोगसाधुयो--।
गानिजलक्षणैरखिलशास्त्रफलं सकलं ब्रवीम्यहं ॥ २२ ॥

भावार्थः--The Hindi commentary was not digitized.

क्वाथपाकविधि.

द्रव्यगुणाच्चतुर्गुणजलं परिषिच्य विपक्व--।
मष्टभागमवशिष्टमपरैः श्रुतकीर्तिकुमारनंदिभिः ॥
षोडशभागशेषितमनुक्तघृतादिषु वीरसेनसू--।
रिप्रमुखैः कषायपरिपाकविधिर्विहितःपुरातनैः ॥ २३ ॥

भावार्थः--The Hindi commentary was not digitized.