मरणसूचकस्वप्न.

स्वप्नगतोऽतिकंटकतरूनधिरोहति चेद्भयाकुलो ।
भीमगुहांतरेऽपि गिरिकूटतटात्पतति ह्यधोमुखः ॥
यस्य शिरोगलोरसि तथोच्छ्रितवेणुगणप्रकार--।
तालादिसमुद्भवो भवति तज्जनमारणकारणावहम् ॥ ३२ ॥

भावार्थः--The Hindi commentary was not digitized.

यानखरोष्ट्रगर्दभवराहमहामहिषोग्ररूपस--।
व्द्यालमृगान् व्रजेत् समधिरुह्य दिशं त्वरितं च दक्षिणं ॥
तैलविलिप्तदेहमसिता वनिता ह्यथवातिरक्तमा--।
ल्यांबरधारिणी परिहसन्त्यसकृत्परिनृत्यतीव सन् ॥ ३३ ॥
प्रेतगणैस्सशल्यबहुभस्मधरैरथवात्मभृत्यव--।
र्गैरतिरक्तकृष्णवसनावृतलिंगिभिरंगनाभिर--॥
त्यंतविरूपिणीभिरवगृह्य नरो यदि नीयतेऽत्र ।
कार्पासतिलोत्थकल्कखललोहचयानपि यः प्रपश्यति ॥ ३४ ॥
539

भावार्थः--The Hindi commentary was not digitized.