541

भावार्थः--The Hindi commentary was not digitized.

आननसंभृतश्वयथुरंघ्रिगतः पुरुषं--।
हंति तदंघ्रिजोप्यनुतदाननगः प्रमदां--॥
गगुह्यगतस्तयोर्मृतिकरोर्धशरीरगतो--।
प्यर्धतनोर्विशोषणकरः कुरुते मरणं ॥ ४० ॥

भावार्थः--The Hindi commentary was not digitized.

यो विपरीतरूपरसगंधविवर्णमुखो ।
नेत्ररुजां विना सृजति शीतलनेत्रजलम् ॥
दाहनखद्विजाननसमुद्गतपुष्पसुग--।
र्भातिसितासितैररुणितैरनिमित्तकृतैः ॥ ४१ ॥

भावार्थः--The Hindi commentary was not digitized.

अन्यरिष्ट.

यश्च दिवानिशं स्वपिति यश्च न च स्वपिति ।
स्पृष्टललाटकूटघटितोछ्रितभूरिशिरः ॥
यश्च मलं बृहत्सृजति भुक्तिविहीनतनु--।
र्यःप्रलपनात्पतत्यपि सचेतन एव नरः ॥ ४२ ॥