545

रोहिताक्ष मर्म.

ऊर्व्योस्तूर्ध्वं वंक्षणस्याप्यधस्तादूरोर्मूले रोहिताक्षेऽपि तद्वत् ।
पक्षाघातःसक्थिशोफोऽस्रपातो मृत्युर्वा स्यात्प्राणिनां वेदनाभिः ॥ ५३ ॥

भावार्थः--The Hindi commentary was not digitized.

विटपमर्म.

अण्डस्याधो वंक्षणस्यांतराले शुक्रध्वंसी स्याद्विटीपाख्यमर्म ।
सक्थ्नैकस्मिन् तान्यथैकादशैव सक्थ्यन्यस्मिन् बाहुयुग्मेऽपि तद्वत् ॥ ५४ ॥

भावार्थः--The Hindi commentary was not digitized.

पादे गुल्फसुजानुसद्विटपनामान्येव वैशेषतो ।
बाहौ तन्माणिबंधकूर्परलसत् कक्षाक्षसंधारणा--॥
ख्यानि स्युः कथिता उपद्रवगणाश्चात्रापि सर्वे चतु--।
श्चत्वारिंशदिहाखिलानि नियतं मर्माणि शाखास्वलं ॥ ५५ ॥

भावार्थः--The Hindi commentary was not digitized.

गुदबस्तिनाभिमर्मवर्णन.

अथ प्रवक्षाम्युदरोरसस्थितानशेषमर्माणि विशेषलक्षणैः ।
गुदे च वस्तौ बरनाभिमण्डले क्षते च सद्यो मरणं भवेन्नृणाम् ॥ ५६ ॥