577

शुद्धरक्ताहरण में प्रतिक्रिया.

वांतां तां कथितांबुपूरितघटे विन्यस्य संपोषयेत् ।
ज्ञात्वा शोणितभेदमप्यतिगतिं संस्थापयेदौषधैः ।
दशे यत्र रुजा भवेदतितरां कण्डूश्च शुद्धप्रदे--।
शस्था स्यादिति तां विचार्य लवणैरामोक्षयेत्तत्क्षणात् ॥ ४८ ॥

भावार्थः--The Hindi commentary was not digitized.

शोणितस्तम्भनविधि.

पश्चाच्छीतजलैर्मुहुर्मुहुरिह प्रक्षाल्य रोगं क्षरेत् ।
क्षीरेणैव घृतेन वा चिरतरं सम्यङ्निषिच्य क्रमात् ॥
रक्तस्यातिमहाप्रवृत्तिविषये लाक्षाक्षमाषाढकै--।
श्चूर्णैः क्षौममयीभिरप्यतितरं शुष्कैस्तु संस्तंभयेत् ॥ ४९ ॥

भावार्थः--The Hindi commentary was not digitized.

शोणितस्तम्भनापरविधि.

लोध्रैश्शुद्धतरैसुगोमयमयैर्गोधूमधात्रीफलैः ।
शंखैः शुक्तिगणारिमेदतरुसंपूतेस्तथा ग्रंथिभिः ॥
सर्ज्जैरर्जुनभूर्जपादपदवत्वग्भिश्च चूर्णीकृतै--।
राचूर्ण्य व्रणमाशु बंधनबलैस्संस्तंभयेच्छोणितं ॥ ५० ॥

भावार्थः--The Hindi commentary was not digitized.