599

विरेचन के प्रकर्णि विषय.

मंदाग्नेरतितीक्ष्णभेषजमिति स्निग्धस्य कोष्ठे मृदौ ।
दत्तं शीघ्रमिति प्रयातमखिलान् दोषान्न संशोधयेत् ॥
प्रातः पीतमिहौषधं परिणतं मध्यान्हतः शोधनं ।
निश्शेषानतिशोधयेदिति मतं जैनागमे शास्वते ॥ ४९ ॥

भावार्थः--The Hindi commentary was not digitized.

दुर्बल आदिकोंके विरेचन विधान.

अत्यंतोच्छ्रितसंचलानतिमहादोषान् हरेदल्पशः ।
क्षीणस्यापि पुनः पुनः प्रचलितानल्पान्प्रशम्याचरेत् ॥
दोषान् पक्वतरं चलानिह हरेत् सर्वस्य सर्वात्मना ।
ते चाशु क्षपयंति दोषनिचयान्निशेषतोऽनिर्हृताः ॥ ५० ॥

भावार्थः--The Hindi commentary was not digitized.

अतिस्निग्धको स्निग्धरेचनका निषेध.

यःस्निग्धोऽतिपिबेद्विरेचनघृतं स्थानच्युतांःसंचलाः ।
दोषाःस्नेहवशात्पुनर्नियमिताः स्वस्था भवंति स्थिराः ॥