603

सावशेष+औषध, व जीर्ण+औषध का लक्षण व उसकी चिकित्सा.

यत्स्यादौषधशेषमप्यतितरां तत्पाचनैः पाचये--।
दल्पं चाल्पबलस्य च प्रचलिताशेषोरुदोषस्य च ॥
तत्रासम्यगधोविरेचितनरस्योष्णैर्जलैर्वामयेत् ।
तीक्ष्णाग्नेरपि भक्तवत्परिणतं तच्चाशु संशोधयेत् ॥ ५९ ॥

भावार्थः--The Hindi commentary was not digitized.

अल्पदाषेहरण, वातजशूलका लक्षण, उसकी चिकित्सा.

अल्पं चाल्पगुणं च भेषजमरं पीतं न निश्शेषतो ।
दोषं तद्वमनं हरेच्छिरसि रुग्व्याधिप्रवृद्धिस्ततः ॥
हृल्लासश्च भवेदिहातिबलिनं तं वामयेदप्यधः ।
शुद्धादुद्धतगौरवं मरुदुरोरोगाद्गुदे वेदना ॥ ६० ॥
तं चाप्याशु विरेचयेन्मृदुतरं तीव्रौषधिश्शोधनैः ।
स्नेहादिक्रियया विहीनमनुजस्यात्यंतरूक्षौषधम् ॥
स्त्रीव्यापररतस्य शीतलमरं दत्तं मरुत्कोपनं ।
कुर्यात्तत्कुरुतेऽतिशूलमथवा विभ्रांतमूर्च्छादिकम् ॥ ६१ ॥

भावार्थः--The Hindi commentary was not digitized.