606

अतियोगका लक्षण व उसकी चिकित्सा.

स्निग्धस्विन्ननरस्य चातिमृदुकोष्ठस्यातितीक्ष्णौषधं ।
दत्तं स्यादतियोगकृद्वमनतः पित्तातिवृत्तिर्भवेत् ॥
विस्रंभेतिबलक्षयोप्यनिलसंक्षोभश्च तत्कारणा--।
त्तं शीतांबुनिषिक्तमिक्षुरससंशीतौषधैश्शोधतेत् ॥ ६८ ॥
स्यादत्यंतविरेचनातिविधिना श्लेष्मप्रवृत्तिस्ततो ।
रक्तस्यापि बलक्षयो ह्यनिलसंक्षोभश्च संजायते ॥
तं चाप्याशु निषिच्य शीतलजलैश्शीतैश्च यष्टीकषा--।
यैस्संछर्दनमाचरेदतिहिमक्षीराज्यकास्थापनम् ॥ ६९ ॥
क्षीराज्येन तथानुवासनमिह प्रख्यातमायोजये--।
दन्यच्चाप्यतिसारवद्विधियुतं सद्भेषजाहारकम् ॥
तस्यास्मिन्वमनातियोगविषयेऽसृक्ष्ठीवतिछर्दय--।
त्यौद्धत्याक्षियुगस्य चापि रसनानाशोऽपि निस्सर्पणम् ॥ ७० ॥
हिक्कोद्गारतृषाविसंज्ञहनुसंस्तंभं तथोपद्रवा--।
स्तेषां चापि चिकित्सितं प्रतिविधास्येहं यथानुक्रमात् ॥
तत्रासृग्गमनेऽतिशोणितविधिं कुर्याच्च जिहोद्गमे ।
जिहां सैंधवसत्कटुत्रिकरजैर्घृष्टां तु संपीडयेत् ॥ ७१ ॥
अंतश्चेद्रसना प्रविश्यति तथा चाम्लान्यथान्ये पुरः ।
खादेयुः स्वयमाम्लवर्गमसकृत् संभक्षयेदक्षयम् ॥
व्यावृत्ते नयने घृतेन ललिते संपीडयेल्लीलया ।
सुस्तब्धे च हनावनूनकफवातध्नौषधैस्स्वेदयेत् ॥ ७२ ॥
हिक्कोद्गारतृषादिषु प्रतिविधिं कुर्याद्विसंज्ञेपि तत् ।
कर्णे वेणुनिनादमाशुमधुरं संश्रावयेत्संश्रुतिम् ॥
वैरेकातिविधौ सचंद्रकमतिस्वच्छं जलं संस्रवे--।
त्मांसान् धौतजलोपमं तदनु तत् पश्चाच्च सच्छोणितं ॥ ७३ ॥