622

अनुवासनबस्तिकी मात्रा व खालीपेट में वस्तिका निषेध.

या मात्रा प्रथितनिरूहसद्रवेषु ।
स्नेहानामपि च तदर्धमुक्तमार्यैः ॥
नाभुक्तं नरमनुवासयेच्च रिक्ते ।
कोष्ठे तदुपरि निपात्य दोषकृत्स्यात् ॥ १२५ ॥
तस्मात्तं तदुचितमाशु भोजयित्वा ।
सार्द्रोद्यत्करमनुवासयेद्यथावत् ॥
अज्ञानादधिकविदग्धभक्तयुक्तं ।
साक्षात्तज्वरयति तत्तदेव योज्यम् ॥ १२६ ॥

भावार्थः--The Hindi commentary was not digitized.

स्निग्धाहारी को अनुवासनबस्तिका निषेध.

सुस्निग्धं बहुतरमन्नमाहृतस्य ।
प्रख्यातं भिषगनुवासयेन्न चैव ॥
मूर्च्छा तृड्मदपरितापहेतुरुक्तः ।
स्नेहोयं द्विविधानतो नियुक्तः ॥ १२७ ॥

भावार्थः--The Hindi commentary was not digitized.