623

भोजन विधि.

आहारक्रममवलोक्य रोगमत्ता । क्षीरेणाप्यधिकखलैस्सुयोगवर्गैः ॥
पादोनं विदितयथोचितान्नतस्तं । संभोज्यातुरमनुवासयेद्यथावत् ॥ १२८ ॥

भावार्थः--The Hindi commentary was not digitized.

अशुद्धशरीर को अनुवासन का निषेध.

देयं स्यान्न तदनुवासनं नरस्या--। शुद्धस्य प्रबलमलैर्निरुद्धमार्गे--।
ण व्याप्नोत्यधिगततैलवीर्यमूर्ध्वं । तस्मात्तत्प्रथमतरं विशोधयेत्तम् ॥ १२९ ॥

भावार्थः--The Hindi commentary was not digitized.

अनुवासनकी संख्या.

रूक्षं तं प्रबलमहोद्धतोरुदोषं ।
द्विस्त्रिर्वाप्यधिकमथानुवास्य मर्त्यम् ॥
स्निग्धांगः स्वयमपि चिंत्य दोषमार्गात् ।
पश्चात्तं तदनु निरूहयेद्यथावत् ॥ १३० ॥

भावार्थः--The Hindi commentary was not digitized.

रात्रिंदिन बस्ति का प्रयोग.

तं चाति प्रबलमलैरशुद्धदेहं । ज्ञात्वेह प्रकटमरुत्प्रपीडितांगम् ॥
रात्रावप्यहनि सदानुवासयेद्य--। द्दोषाणां प्रशमनमेव सर्वथेष्टम् ॥ १३१ ॥