631

पित्तघ्ननिरूहवस्ति.

क्षीरवृक्षकमलोत्पलकाकोल्यादिनिक्वथिततोयसुशीताः ।
वस्तयः कुपितपित्तहितास्ते शर्कराघृतपयःपरिमिश्राः ॥ १५३ ॥

भावार्थः--The Hindi commentary was not digitized.

कफघ्ननिरूहबस्ति.

राजवृक्षकुटजत्रिकटोग्राक्षारतोयसहितास्तु समूत्राः ।
बस्तयः प्रकुपितोरुकफघ्ना स्सैंधवादिलवणास्तु सुखोष्णाः ॥ १५४ ॥

भावार्थः--The Hindi commentary was not digitized.

शोधन बस्ति.

शोधनद्रवसुशोधनकल्कस्नेहसैंधवयुतापि च ताः स्युः ।
बस्तयः प्रथितशोधनंसज्ञाश्शोधनार्थमधिकं विहितास्ते ॥ १५५ ॥

भावार्थः--The Hindi commentary was not digitized.

लेखन बस्ति.

क्षारमूत्रसहिताः त्रिफलाक्काथोत्कटाः कटुकभेषजमिश्राः ।
ऊषकादिलवणैरपि युक्ता बस्तयस्तनुविलेखनकाः स्युः ॥ १५६ ॥

भावार्थः--The Hindi commentary was not digitized.