गुडतैलिकबस्ति के उपसंहार.

इति पुराणगुडैस्सतिलोद्भवैस्समधृतैः कथितद्रवसंयुतैः ।
सुविहितं कुरु बस्तिमनेकदा विविधदोषहरं विविधौषधैः ॥ १६९ ॥

भावार्थः--The Hindi commentary was not digitized.

91 635
कथितबस्तिगणानिह बस्तिषु प्रवरयानगणेष्वपि केषुचित् ।
कुरुत निष्परिहारतया नरा । नरवरेषु निरंतरमादरात् ॥ १७० ॥

भावार्थः--The Hindi commentary was not digitized.

इत्येवं गुडतिलसंभवाख्ययोगः स्निग्धांगेष्वतिमृदुकोष्ठसुप्रधाने--।
ष्वत्यंतं मृदुषु तथाल्पदोषवर्गेंष्वत्यर्थं सुखिषु च सर्वथा नियोज्यः ॥ १७१ ॥

भावार्थः--The Hindi commentary was not digitized.

इति जिनवक्त्रनिर्गतसुशास्त्रमहांबुनिधेः ।
सकलपदार्थविस्तृततरंगकुलाकुलतः ॥
उभयभवार्थसाधनतटद्वयभासुरतो ।
निसृतमिदं हि शीकारनिभं जगदेकहितम् ॥ १७२ ॥
636
  1. तिलजं इतिपाठांतरं