634

भावार्थः--The Hindi commentary was not digitized.

युक्तरथ बस्ति.

तद्गुडं तिलजमेव समानं तत्कषायसहितं जटिला च ।
पिष्पलीमदनसैंधवयुक्तं बस्तिरेष वसुयुक्तरथाख्यः ॥ १६६ ॥

भावार्थः--The Hindi commentary was not digitized.

शूलघ्नबस्ति.

देवदारुशतपुष्पसुरास्ना हिंगुसैंधवगुडं तिलजं च ।
चित्रबीजतरुमूलकषायैर्बस्तिरुग्रतरशूलकुलघ्नम् ॥ १६७ ॥

भावार्थः--The Hindi commentary was not digitized.

सिद्धबस्ति.

कोलसद्यवकुलत्थरसाढ्यः पिप्पलीमधुकसैंधवयुक्तः ।
जीर्णसद्गुडतिलोद्भवमिश्रः सिद्धबस्तिरिति सिद्धफलोऽयम् ॥ १६८ ॥

भावार्थः--The Hindi commentary was not digitized.

गुडतैलिकबस्ति के उपसंहार.

इति पुराणगुडैस्सतिलोद्भवैस्समधृतैः कथितद्रवसंयुतैः ।
सुविहितं कुरु बस्तिमनेकदा विविधदोषहरं विविधौषधैः ॥ १६९ ॥

भावार्थः--The Hindi commentary was not digitized.

91
  1. तिलजं इतिपाठांतरं