597

विरेचक औषधदानविधि.

अन्येद्युस्सुविचार्य जीर्णमशनं सूर्ये च निर्लोहिते ।
दद्यादौषधमग्निमल्पपरुषव्याधिक्रमालोचनैः ॥
कोष्ठः स्यात्त्रिविधो मृदुः कठिन इत्यन्योपि मध्यस्तथा ।
पिचेनातिमरुत्कफेन निखिलैर्दोषैः समैर्मध्यमः ॥ ४४ ॥

भावार्थः--The Hindi commentary was not digitized.

विबिध कोष्ठो में औषधयोजना.

मृद्वी स्यादिह सन्मृदावतितरां क्रूरे च तीष्णा मता ।
मध्याख्येऽपि तथैव साधुनिपुणैर्मध्या तु मात्रा कृता ॥
अप्राप्तं बलतो मलंगमयुतं नेच्छेत्सपित्तौषधम् ॥
प्राप्तं वापि न वारयेदतितरां वेगं विघातावहम् ॥ ४५ ॥

भावार्थः--The Hindi commentary was not digitized.

सम्यग्विरिक्त के लक्षण व पेयपान.

यास्यंति क्रमतो मरुज्जलमला पित्तौषधोद्यत्कफाः ।
यातेष्वेषु ततोऽनिलानुगमने सम्यग्विरिक्तो भवेत् ॥
सोयं शुद्धतनुः श्रमक्लमयुतो लघ्वी तनुं चोद्वहन् ।
संतुष्टोऽतिपिपासुरग्निबलवान् क्षीणो यवागूं पिबेत् ॥ ४६ ॥