664

भावार्थः--The Hindi commentary was not digitized.

केशकृष्णीकरण श्यामादितेल.

श्यामासैरेयकाणां सहचरियुतसत्कृष्णपिण्डीतकानाम् ।
पुष्पाण्यत्रापि पत्राण्यधिकतरमहानीलिकानीलिकानाम् ॥
तन्वीं चाम्रार्जुनानां निचुलबदरसत्क्षिरिणां च द्रुमाणां ।
संशोष्याचूर्ण्य चूर्णं समधृतमखिलं लोहचूर्णेन सार्धम् ॥ ९६ ॥
प्रोक्तैश्चूर्णैस्समानं सरसिजवरसत्स्थानपंकं समस्तं ।
नीलीभृंगासमानां स्वरसविलुलितं त्रैफलेनाम्भसा च ॥
लोहे कुंभे निधाय स्थितमथ दशरात्रं ततस्तैः कषायैः ।
कल्कैस्तावद्विपच्यं तिलजमलिनिभा यावदा श्वेतकेशाः ॥ ९७ ॥
एतत्तैलं यथावन्निहितमतिघने लोहकुंभे तु मासं ।
तंलिंपेच्छ्वेतकेशानलिकुलविलसन्नीलनीलांजनाभान् ॥
कुर्यात्सद्यस्समस्तान् अतिललितलसल्लोहकांतोरुवृंतान् ।
वक्त्रे विन्यस्य यत्नादधिकतरमरं रंजयेत्तत्कपालम् ॥ ९८ ॥

भावार्थः--The Hindi commentary was not digitized.