638

भावार्थः--The Hindi commentary was not digitized.

बस्ति का माण.

इत्युक्तसद्रवयुतोत्तरबस्तिसंज्ञान्बस्तित्रिकानपि तथा चतुरोपि दद्यात् ।
शुक्रार्तवप्रवरभूरिविकारशांत्यै बीजद्वयप्रवररोगगणान्ब्रवीमि ॥ ७ ॥

भावार्थः--The Hindi commentary was not digitized.

वातादि दोषदूषित रजोवीर्य के रोग लक्षण.

वातादिदोषनिहतं खलु शुक्ररक्तं ।
ज्ञेयं स्वदोषकृतलक्षणवेदनाभिः ॥
गंधस्वरूपकुणपं बहुरक्तदोषात् ।
ग्रंथिप्रभूतबहुलं कफवातजातम् ॥ ८ ॥
पूयो भवत्यतितरां बहलं सपूति ।
प्रोत्पित्तशोणितविकारकृतं तु बीजम् ॥
स्यात्सन्निपातजनितं तु पुरीषगंधं ।
क्षीणं क्षयादथ भवेद्बहुमैथुनाच्च ॥ ९ ॥

भावार्थः--The Hindi commentary was not digitized.

साध्यासाध्य विचार और वातादिदोषजन्य वीर्यरोग की चिकित्सा.

तेषु त्रिदोषजनिताः खलु बीजरोगाः ।
साध्यास्तथा कुणपपूयसमस्तकृच्छ्राः ॥