643
तेनैव बस्तिमथ चोत्तरबस्तिमुद्यत्तैलेन संप्रति कुरु प्रमदाहिताय ।
निश्शेषदोषशमनं नवमेऽपि मासेऽप्येवं कृते विधिवदत्र सुखं प्रसूते ॥ २६ ॥

भावार्थः--The Hindi commentary was not digitized.

निकटप्रसवा के लक्षण और प्रसवविधि.

कट्यां स्वपृष्ठनिलयेऽप्यतिवेदना स्याच्छ्लेष्मा च मूत्रसहितः प्रसरत्यतीव ।
सद्यःप्रसूत इति तैरवगम्य तैलेनाभ्यज्य सोष्णजलसंपरिषेचितांताम् ॥ २७ ॥
स्वप्यात्तथा समुपसृत्य निरूप्य चालीं प्राप्तां प्रवाहनपरां प्रमदां प्रकुर्यात् ।
यत्नाच्छनैः क्रमत एव ततश्च गाढं साक्षादपायमपहृत्य सुखं प्रसूते ॥ २८ ॥

भावार्थः--The Hindi commentary was not digitized.

जन्मोत्तर विधि.

जातस्य चांबुकसुसैंधवसर्पिषा तां संशोध्य नाभिनियतामपि शुद्धितांगां ।
अष्टांगुलीमृदुतरायतसूत्रबद्धां छित्वा गले नियमितां कुरु तैललिप्तां ॥ २९ ॥
93
  1. नालि इति पाठांतरसू.