644

भावार्थः--The Hindi commentary was not digitized.

अनंतर विधि.

पश्चाद्यथा विहितमत्र सुसंहितायां तत्सर्वमेव कुरु बालकपोषणार्थम् ।
तां पाययेत्प्रसविनीमतितैललिप्तां स्नेहान्विताम्लवरसोष्णतरां यवागूम् ॥ ३० ॥

भावार्थः--The Hindi commentary was not digitized.

अपरापतन के उपाय.

हस्तेन तामपहरेदपरां च सक्ताम् तां पाययेदधिकलांगलकीसुकल्कैः ।
संलिप्य पादतलनाभ्युदरप्रदेशं संधूप्य योनिमथवा फणिचर्मतैलैः ॥ ३१ ॥

भावार्थः--The Hindi commentary was not digitized.

सूतिकोपचार.

एवं कृता सुखवती सुखसंप्रसूता स्यात्सूतिकेति परिणेति ततः प्रयत्नात् ।
अभ्यंगयोनिबहुतर्पणपानकादीन् मासं कुरु प्रबलवातनिवारणार्थम् ॥ ३२ ॥

भावार्थः--The Hindi commentary was not digitized.