उत्तरबस्तिप्रयोगविधि

सुस्निग्धमातुरमिहोष्णजलाभिषिक्त--।
मुत्सृष्टमूत्रमलमुत्कटिकासनस्थम् ॥
स्वाजानुदघ्नफलकोपरि सोपधाने ।
पीत्वा घृतेन पयसा सहितां यवागूम् ॥ ३ ॥
कृत्वोष्णतैलपरिलिप्तसुबस्तिदेश--।
माकृष्य मेहनमपीह समं च तस्य ॥
नेत्रं प्रवेश्य शनकैर्घृतलिप्तमुद्य--।
द्बस्तिं प्रपीडय सुखं क्रमतो विदित्वा ॥ ४ ॥
637

भावार्थः--The Hindi commentary was not digitized.