रसंसस्कार विधि.

जिनेंद्रमधिदेवतामनुविधाय यक्षेश्वरं ।
विधाय वरदांविकामपि तदाम्रकूष्याण्डिनीं ॥
समर्च्य निखिलार्चनैस्तनुविसर्गमार्गं जपे--।
च्चतुर्गुणितषट्कमिष्टगुरुपंचसन्मंत्रकम् ॥ ११ ॥
कृतांजलिरथ प्रणम्य भुवनत्रयैकाधिपा--।
नशेष जिनवल्लभाननुदिनं समारंभयेत् ॥
प्रधानतमसिद्धभक्तिकृतपूर्वदीक्षामिमां ।
नवग्रहयुतां प्रगृह्य रससिद्धये बुद्धिमान् ॥ १२ ॥

भावार्थः--The Hindi commentary was not digitized.

673
रसेंद्रमथ शोधयेत्सुरुचिरेष्टकेणान्वितं ।
स्तनोद्भवरसेन सम्यगवमर्द्य खल्वोपले ॥
सुधौतमुरुकांजिकाविपुलपात्रदोलागतं ।
पचेत्त्रिकटुकांजिकालवणवर्गहिंगूर्जितम् ॥ १३ ॥
एवं दिनत्रयमखण्डितवन्हिकुण्डे ।
स्विन्नस्सुखोष्णतरकांजिकया सुधौतः ॥
शुद्धो रसो भवति राक्षस एव साक्षात् ।
सर्वं चरत्यपि च जीर्णयतीह लोहम् ॥ १४ ॥

भावार्थः--The Hindi commentary was not digitized.

तं विक्ष्य भास्करनिभप्रभया परीतं ।
सिद्धान्प्रणम्य सुरसं परिपूज्य यत्नात् ॥
दद्यात्तथाधिकृतबीजमिहातिरक्तम् ।
सरंजिते फलरसायनपादशांऽशम् ॥ १५ ॥
गर्भद्रुतेः क्रमत एव हि जीर्णयित्वा ।
सूक्ष्मांबरद्विगुणितावयवसृतं तं ॥
क्षारत्रयैः त्रिकटुकैर्लवैणस्तथाम्लैः ।
संभावितैर्विडवरैरधरोत्तरस्यैः ॥ १६ ॥
रम्भापलाशकमलोद्भवपत्रवर्गै--।
र्बद्धं चतुर्गुणितजीरकया च दोलां ॥
संस्वेदयेद्विपुलभाजनकांजिकायां ।
रात्रौ तथा प्रतिदिनं विदधीत विद्वान् ॥ १७ ॥
102 674

भावार्थः--The Hindi commentary was not digitized.

बीजाभ्रतीक्ष्णवरमाक्षिकधातुसत्व--।
संस्कारमत्र कथयामि यथाक्रमेण ॥
संक्षेपतः कनककृद्रसबंधनार्थं ।
योगिप्रधानपरमागमतः प्रगृह्य ॥ १८ ॥

भावार्थः--The Hindi commentary was not digitized.

ताम्रं सुबीजसदृशं परिगृह्य ताम्रं ।
पत्रीकृतं द्विगुणमाक्षिककल्कलिप्तं ॥
675
अभ्यंतरे स्थिरसुबीजवरं प्रकृत्य ।
बाह्ये कुरु प्रबलगंधककल्कलेपम् ॥ १९ ॥
सद्वृत्तमुत्तमगुणं प्रविधाय वज्र--।
मूषागतं वदनमस्य पिधाय धीमान् ॥
सम्यग्धमेत्खदिरसद्भमरैस्ततस्तं
निर्भेद्य शुद्धगुलिकामवलोक्य यत्नात् ॥ २० ॥
भूयस्तथैव बहुशः परिरंजयेत्तां ।
पूर्वप्रणीतगुलिकामथ भिद्य सूक्ष्मां ॥
चूर्णीकृतां रसवरे स च देयमादौ ।
मध्येऽवसानसमयेऽपि यथाक्रमेण ॥ २१ ॥

भावार्थः--The Hindi commentary was not digitized.

  1. धृति इति पाठांतरं ॥