672

रसशालानिर्माणविधि.

अथ प्रथममुत्तरायणदिने तु पक्षे शुचौ ।
स्वचंद्रवलयुक्तलग्नकरणे मुहूर्ते शुभे ॥
प्रशस्तदिशि वास्तुलक्षणगुणेक्षितावासम--।
प्यनिंद्यरसबंधनार्थमतिगुप्तमुद्भावयेत् ॥ १० ॥

भावार्थः--The Hindi commentary was not digitized.

रसंसस्कार विधि.

जिनेंद्रमधिदेवतामनुविधाय यक्षेश्वरं ।
विधाय वरदांविकामपि तदाम्रकूष्याण्डिनीं ॥
समर्च्य निखिलार्चनैस्तनुविसर्गमार्गं जपे--।
च्चतुर्गुणितषट्कमिष्टगुरुपंचसन्मंत्रकम् ॥ ११ ॥
कृतांजलिरथ प्रणम्य भुवनत्रयैकाधिपा--।
नशेष जिनवल्लभाननुदिनं समारंभयेत् ॥
प्रधानतमसिद्धभक्तिकृतपूर्वदीक्षामिमां ।
नवग्रहयुतां प्रगृह्य रससिद्धये बुद्धिमान् ॥ १२ ॥

भावार्थः--The Hindi commentary was not digitized.