679
अपि च सारितसद्गुलिकां पुरः ।
क्रमत एव चतुर्गुणसारता ॥
गुलिक एव च सारणमार्मतो ।
बिदितचारुभिदैरपि जीर्णयेत् ॥ ३६ ॥
स खलु सिद्धरसस्समसारितः ।
पुनरपीह चतुर्गुणसारतः ॥
क्रमयुतैरतिमर्दनपाचनै--।
र्भवति तत्प्रतिसारितनामकः ॥ ३७ ॥
अयमपि प्रतिसारित सद्रस--।
स्समगुणोत्तमहेतुसुसारितः ॥
विदितसिद्धरसे तु चतुर्गुणे ।
क्रमविजीर्णरसो ह्यनुसारितः ॥ ३८ ॥

भावार्थः--The Hindi commentary was not digitized.