682

पारद प्रयोजन.

मत्स्याक्षीगिरिकार्णिका शिखिशिखाजंघारुहाक्षीरिणी--।
त्येता निर्मुखतोभ्रसूतकसमो योगं प्रकुर्वंति ताः ॥
आरामोद्भवशीतशीतलिकिकाप्येका तथा वृश्चिका--।
द्येतत्त्वद्भुतमभ्रकं रसवरस्याहारमाहारयेत् ॥ ४६ ॥

भावार्थः--The Hindi commentary was not digitized.

सिद्धरसमाहात्म्य.

इत्येवं घनचूर्णमुज्वलरसं हेम्ना च संयोजितं ।
वन्हौ निश्चलतामुपेतमधिकं संवासनात्यासनैः ॥
तं समूर्च्छितमेव वामृतमलं संभक्ष्य मंक्ष्वक्षयं ।
वीर्यं रोगविहीनतामतिबलं प्राप्नोति मर्त्यः स्वयम् ॥ ४७ ॥

भावार्थः--The Hindi commentary was not digitized.

बद्धं सिद्धरसं पलद्वयमलं संगृह्य लोहे शुभे ।
पात्रे न्यस्य पलं घृतं त्रिफलया सिद्धस्य तोयस्य च ॥
दत्वाति प्रणिधाय पक्वमतिमृद्वग्निप्रयोगाद्धरी--।
तक्या द्वे च नियुज्य पूज्यतमवीर्याज्यावशेषीकृतम् ॥ ४८ ॥
पीत्वा तद्घृतमुत्तमं प्रतिदिनं मर्त्योऽतिमत्तद्विपे--।
न्द्रोद्यद्वीर्यबलप्रतापसहितः साक्षाद्भवेत्तत्क्षणात् ॥
तत्रैकं पलमाहृतं रसवरस्यात्युग्ररोगापहं ।
स्यादेकं पलनुज्वलत्कनकबद्धं तस्य नस्यावहम् ॥ ४९ ॥

भावार्थः--The Hindi commentary was not digitized.