684
तत्रास्थाप्य रसं गृहीतकनकं बध्वा च सूक्ष्मांवरो--।
त्खण्डैः पुट्टालिकां करंजतिलजैरादीपयेद्दीपिकाम् ॥ ५२ ॥

भावार्थः--The Hindi commentary was not digitized.

तत्र प्रलेपनविधावतिरंजकः स्यात् ।
उच्छिष्टनामकरसः कृतकल्कको वा ॥
योऽयं भवेदधिकवेदकशक्तियुक्तो ।
लोहैस्सहैव परिवर्तयतीह बद्धः ॥ ५३ ॥

भावार्थः--The Hindi commentary was not digitized.

रससंक्रमणौषध.

एवं बद्धविशुद्धसिद्धरसराजस्येह संक्रामणं ।
वक्ष्ये माक्षिककाकविट्कनलिका कर्णामलं माहिषं ॥
स्वीक्षीरक्षतजं नरस्य वटपी प्रख्यातपारापती ।
श्रृंगीटंकणचूर्णमिश्रितमधूच्छिष्टेन संक्रामति ॥ ५४ ॥

भावार्थः--The Hindi commentary was not digitized.

इत्येवं दीपिकांतामवितथविलसद्योनिशास्त्रप्रबद्धा ।
व्याख्याता सत्क्रियेयं सकलतनुरुजाशांतये शांतचित्तैः ॥
उग्रादित्यैर्मुनींद्रैरनवरतमहादानशीलैस्सुशीलैः ।
कृत्वा युक्त्यात्र दत्वा पुनरपि च धनं दातुकामैरकामैः ॥ ५५ ॥