709

भावार्थः--The Hindi commentary was not digitized.

पाक्षिकमरणचिन्ह.

यदा परस्मिन्निह दृष्टिमण्डले स्वयं स्वरूपं न च पश्यति स्फुटं ।
प्रदीप्तगंधं च न वेत्ति यस्तत त्रिपंचरात्रेषु नरो न विद्यते ॥ २१ ॥

भावार्थः--The Hindi commentary was not digitized.

द्वादशरात्रिकमरणचिन्ह.

यदा शरीरं शवगंधतां वदेदकारणादेव वदंति वेदना ।
प्रबुद्ध वा स्वप्नतयैव यो नरैः स जीवति द्वादशरात्रमेव वा ॥ २२ ॥

भावार्थः--The Hindi commentary was not digitized.

सप्तरात्रिकमरणचिन्ह.

यदात्यचिन्होत्यबलोऽसितो भवेद्यदारविंदं समवक्त्रमण्डलम् ।
यदा कपोले बलकेंद्रगोपकस्स एव जीवेदिह सप्तरात्रिकं ॥ २३ ॥

भावार्थः--The Hindi commentary was not digitized.

त्रैरात्रिकमरणचिन्ह.

तुदं शरीरे प्रतिपीडयत्यप्यनूनमर्माणि च मारुतो यदा ।
तथोग्रदुर्वृश्चिकविद्धवन्नरस्सदैव दुःखी त्रिदिनं स जीवति ॥ २४ ॥