वज्रकल्प.

वज्राण्यप्यथ वज्रलोहमखिलं वज्रोरुबंधीफलं ।
प्रोद्यद्वज्रकपालमप्यतितरं वज्राख्यपाषाणकम् ॥
यद्यल्लब्धमतः प्रगृह्य विधिना दग्ध्वा तु भस्त्राग्निना ।
सम्यक्पाटलवीरवृक्षकृतसद्भस्माम्भसि प्रक्षिपेत् ॥ ३३ ॥
तान्यत्युष्णकुलत्थपक्वसलिले सप्ताभिवेकान्क्रमात् ।
कृत्वैवं पुनराधिके पयसि च प्रक्षिप्य यत्नाद्बुधः ॥
चूर्णीकृत्य सिताज्यमिश्रममलं ज्ञात्वात्र मात्रां स्वयं ।
लीढ्वाहारनिवासबित्स जयति प्रख्यातरोगान्नरः ॥ ३४ ॥

भावार्थः--The Hindi commentary was not digitized.