704

अथ परिशिष्टरिष्टाध्यायः

मंगलाचरण व प्रतिज्ञा.

अरिष्ठनेमिं परमेष्ठिनं जिनं प्रणम्य भक्त्या प्रविनष्टकल्मषं ।
विशिष्टसंदिष्टसुरिष्टलक्षणं प्रवक्ष्यते स्वस्थजनेषु भाषितम् ॥ १ ॥

भावार्थः--The Hindi commentary was not digitized.

रिष्टवर्णनोद्देश.

रहस्यमेतत्परमागमागतं महामुनीनां परमार्थवेदिनां ।
निगद्यते रिष्टमिदं सुभावनापरात्मनामेव न मोहितात्मनाम् ॥ २ ॥

भावार्थः--The Hindi commentary was not digitized.

मृतिर्मृतेर्लक्षणमायुषक्षयं मृतेरुपायाद्गरले कथंचन ।
विमोहितानां मरणं महद्भयं ब्रवीमि चेत्तद्यतः कस्य नो भवेत् ॥ ३ ॥

भावार्थः--The Hindi commentary was not digitized.

वृद्धो में सदा मरणभय.

अथ प्रयत्नादिह रिष्टलक्षणं सुभावितानां प्रवदे महात्मनां ।
कटंकटीभूतवयोधिकेष्वपि प्रतीतमृत्योर्भयमेव सर्वदा ॥ ४ ॥