22

अनूपदेश लक्षण ।

य एवमुक्तः स च जांगलस्ततः पुनस्तथानूपविधानमुच्यते ।
यथाक्रमाद्यत्र हि शीतलोदका । मही सदा कर्दमदुर्गमा भवेत् ॥ २५ ॥
स्वभावतो यत्र महातिकोमलास्तृणक्षुपागुल्मलतावितानकाः
वटा विटंकोत्कटपाटलीद्रुमा । विकीर्णपुष्पोत्करपारिजातकाः ॥ २६ ॥
अशोककक्कोललंवगकंगुका विलासजातीवरजातिजातयः ।
समल्लिका यत्र च माधवी सदा । विलोलपुष्पाकुलमालती लता ॥ २७ ॥
महीधरा यत्र महामहीरुहैरलंकृता निर्जरधौतसानवः ।
घनाघनाकंपितचंपकद्रुमा । मयूरकेकाकुलचूतकेतकाः ॥ २८ ॥
तमालतालीवरनालिकेरकाः क्रमाच्च यत्र क्रमुकावली सदा ।
सतालहिंतालवनानुवेष्टिता । ह्रदा नदा स्वच्छजलातिशोभिताः ॥ २९ ॥
शरन्नभःखण्डनिभाश्च यत्र स--त्तटाकवापी सरितस्तु सर्वदा ।
बलाकहंसोदयकुक्कुटोच्चलद्विलोलपद्मोत्पलषण्डमण्डिताः ॥ ३० ॥
प्रलंबतांबूललताप्रतानकः । समंततो यत्र च शालिमावकाः ।
महेक्षुःवाटापरिवेष्टनोज्वला भवंति रम्या कदलीकदंवकाः ॥ ३१ ॥
विपक्वगोक्षीरसमाहिषोज्वलद्दधिप्रभूतं पनसाम्रजांयवत् ।
प्रकीर्णखर्जूरसनालिकेरकं गुडाधिकं यत्रःच मृष्टभोजनम् ॥ ३२ ॥
सदा जना यत्र च मार्दवाधिकाः ससौकुमार्योज्वलपादपल्लवाः ।
अतीव च स्थूलशरीरवृत्तयः कफाधिका वातकृतामयान्विताः ॥ ३३ ॥
ततश्च तेषां कफवातयोः क्रिया सदैव वैद्यैः क्रियतेऽत्र निश्चितैः
इतीत्थमानूपविधिः प्रकीर्तितः तथैव साधारणलक्षणे कथा ॥ ३४ ॥
5
  1. --महेक्षुवाटी इतिपाठांतरं