28

गर्भस्थ बालककी पोषणविधि ।

निजरुचितामपक्वसमलाशयमध्यमगर्भसंस्थितः ।
सरसजरायुणा परिवृतो बहुलोग्रतमेन कुंठितः ।
प्रतिदिनमंबिकादशनचर्वितभक्ष्यभोज्यपानका--
न्युपरि निरंतरं निपतितान्यतिपित्तकफाधिकान्यलम् ॥ ५५ ॥
विरसपुरीषगंधपरिवासितवांतरसान्समंततः ।
पिबति विभिन्नपार्श्वघटवत्कुणपोंऽबुयुतो घटस्थितः ।
अभिहितसप्तमासतस्तदनंतरमुत्पलनालसंनिभं ।
भवति हि नाभिसूत्रममुना तत उत्तरमश्नुते रसान् ॥ ५६ ॥
इति कथितक्रमादधिनीतवृद्धिमनेकविघ्नतः ।
समुदितमातुरंगपरिपीडनमुग्रमुदीरयन्पुनः ।
प्रभवति वा कथंचिदथवा म्रियते स्वयमंबिकापि वा--
मनुजभवे तु जन्मसदृशं न च दुःखमतोऽस्ति निश्चितम् ॥ ५७ ॥

भावार्थः--The Hindi commentary was not digitized.

कर्मकी महिमा ।

अशुचिपुरीषमूत्ररुधिरस्रावगुह्यमलप्रदिग्धता ।
निष्ठुरतरविस्रपूतिबहुमिश्रितरोमचयातिदुर्गमम् ।
सुषिरमधोमुखं गुदसमीपविवर्ति निरीक्षणासहं ।
कथयितुमप्ययोग्यमधिगच्छति कर्मवशात्सगर्भजः ॥ ५८ ॥