17

अथ द्वितीयः परिच्छेदः ।

मंगलाचरण और प्रतिज्ञा

अशेषकर्मक्षयकारणं जिनं । प्रणम्य देवासुरवृंदवंदितम् ।
ब्रवीम्यतस्स्वास्थ्यविचारलक्षणं । यथोक्तसल्लक्षणलक्षितं बुधैः ॥ १ ॥

भावार्थः--The Hindi commentary was not digitized.

स्वास्थ्यका भेद ।

अथेह भव्यस्य नरस्य सांप्रतं । द्विधैव तत्स्वास्थ्यमुदाहृतं जिनैः ।
प्रधानमाद्यं परमार्थमित्यतो द्वितीयमन्यद्व्यवहारसंभवम् ॥ २ ॥

भावार्थः--The Hindi commentary was not digitized.

परमार्थस्वास्थ्यलक्षण ।

अशेषकर्मक्षयजं महाद्भुतं । यदेतदात्यंतिकमद्वितीयम् ।
अतींद्रियं प्रार्थितमर्थवेदिभिः । तदेतदुक्तं परमार्थनामकम् ॥ ३ ॥

भावार्थः--The Hindi commentary was not digitized.

व्यवहारस्वास्थ्यलक्षण ।

माग्निधातुत्वमदोषविभ्रमो । मलक्रियात्मेंद्रियसुप्रसन्नता ।
मनःप्रसादश्च नरस्य सर्वदा । तदेवमुक्तं व्यवहारजं खलु ॥ ४ ॥

भावार्थः--The Hindi commentary was not digitized.

2
  1. --समदोषः समाग्निश्च समधातुमलक्रियः ।

    प्रसन्नात्मेंद्रियमनाः स्वस्थ इत्यभिधीयते । वाग्भट