कफप्रकृति के मनुष्यका लक्षण !

श्लेष्मोद्भवायाः प्रकृतेर्नरः स्यान्मेधाधिकः स्थूलतरः प्रसन्नः ।
दूर्वांकुरश्यामलगात्रयष्टिर्मर्त्यः कृतज्ञः प्रतिबद्धवैरः ॥ २५ ॥
श्रीमान् मृदंगांबुदसिंहघोषः स्निग्धः स्थिरः सन्मधुरप्रियश्च ।
माधुर्यवीर्याधिकधैर्ययुक्तः कातः सहिष्णुर्व्यसनैर्विहीनः ॥ २६ ॥
शिक्षाकलावानपि शीघ्रमेव ज्ञातुं न शक्तः सुभगः सुनेत्रः ॥
हंसाढ्यपद्मोत्पलषण्डवापीस्रोतस्विनीः पश्यति संप्रसुप्तः ॥ २७ ॥

भावार्थः--The Hindi commentary was not digitized.

13 36
  1. --भुंजा, इति पाठांतरं ॥